शोकसन्देश:

* शोकसन्देश: *


संस्कृतभारत्या: पश्चिमोत्तरक्षेत्रस्य संयोजक: माननीय: बुद्धदेवशर्मा अद्य ( २५/०२/२०२०) देहल्यां गंगारामरुग्णालये अपराह्ने २.३५ वादने दिवङ्गत:। स: बहुकालत: 'पीलिया' रोगेण ग्रस्त: आसीत्। पार्थीवं हरिद्वारे संस्कृतभारत्या: कार्यालये अद्यरात्रौ स्थापितं भविष्यति। श्व: हरिद्वारे अन्तिम: संस्कार: भविष्यति।


अद्य गंगारामरुग्णालयं गत्वा संस्कृतभारत्या: अखिलभारतसङ्घटनमन्त्री श्रीमान् दिनेश: कामत:, पूर्वाध्यक्ष: डा.चान्दकिरण: सलूजा, संस्कृतसंवर्धनप्रतिष्ठानस्य निदेशक: श्रीमान् लक्ष्मीनरसिंह:, श्रीमान् श्रीनिवासन् इत्यादय: श्रद्धाञ्जलीं समर्पितवन्त:। हरिद्वारे संस्कृतभारत्या: जेष्ठपूर्णकालिक: श्रीमान्  प्रतापसिंह: एवम् उत्तराखण्डस्य सहप्रान्तमन्त्री श्रीमान् हरीष: गुरुरानी व्यवस्थां द्रक्षत:।


स्वर्गीय: डा. बुद्धदेवः उत्तराखण्डस्य संस्कृत-अकादम्या: सचिव: आसीत्। 'वाक्' इति पाक्षिकपत्रिकाया: संपादनं व्रतरूपेण कृतवान्। स: संस्कृतभारत्या: प्रान्ताध्यक्षरूपेण दीर्घकालं यावत् कार्यं कृतवान्। तस्मात् पूर्वं स: राष्ट्रीयस्वयंसेवकसंघस्य नगर संघचालक: अपि आसीत्। देहरादूने तस्य वास: आसीत्। तस्य पत्नी, तिस्र: पुत्र्य:, जामातर: सन्ति।


गृहस्थजीवनस्य दायित्वानि समाप्य स: संस्कृताय जीवनं समर्पितवान् आसीत्। तस्य शीघ्रगमनं हानिकारकं प्रतीयते। तस्मै अग्रिमप्रवासाय शुभकामना:! समर्पितजीवनाय नमामि।


श्रीश: देवपुजारी, अ.भा. महामन्त्री, संस्कृतभारती।